|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.75. अध्यायः 075
Mahabharata - Shanti Parva - Chapter Topics
राज्यस्वीकारे अधर्माशङ्किनं युधिष्ठिरं प्रति भीष्मेण तस्य धार्मिकत्वसमर्थनेन तद्विधानम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-75-0x(5528)(67770)
यया वृत्त्या महीपालो विवर्धयति मानवान्।
पुण्यांश्च लोकाञ्जयति तन्मे ब्रूहि पितामह॥ 12-75-1(67771)
भीष्म उवाच। 12-75-2x(5529)
दानशीलो भवेद्राजा यज्ञशीलश्च भारत।
उपवासतपः शीलः प्रजानां पालने रतः॥ 12-75-2(67772)
सर्वाश्चैव प्रजा नित्यं राजा धर्मेण पालयन्।
उत्थानेन प्रदानेन पूजयेच्चापि धार्मिकान्॥ 12-75-3(67773)
राज्ञा हि पूजितो धर्मस्ततः सर्वत्र पूज्यते।
यद्यदाचरते राजा तत्प्रजानां स्म रोचते॥ 12-75-4(67774)
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु।
निहन्यात्सर्वतो दस्यून्न राज्ञो दस्युषु क्षमा॥ 12-75-5(67775)
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः।
चतुर्थं तस्य धर्मस्य राजा भागं च विन्दति॥ 12-75-6(67776)
यदधीते यद्ददाति यञ्जुहोति यदर्चति।
राजा चतुर्थभाक्तस्य प्रजा धर्मेण पालयन्॥ 12-75-7(67777)
यद्राष्ट्रोऽकुशलं किंचिद्राज्ञो रक्षयतः प्रजाः।
चतुर्थं तस्य पापस्य राजा भारत विन्दति॥ 12-75-8(67778)
अप्याहुः सर्वमेवेति भूयोऽर्धमिति निश्चयः।
कर्मणा पृथिवीपाल नृशंसोऽनृतवागपि॥ 12-75-9(67779)
तादृशात्किल्बिपाद्राजा शृणु येन प्रमुच्यते।
प्रत्याहर्तुमशक्यं स्याद्धनं चोरैर्हृतं यदि।
तत्स्वकोशात्प्रदेयं स्यादशक्तेनोपजीवतः॥ 12-75-10(67780)
सर्ववर्णैः सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणा यथा।
न स्थेयं विषये तेन योऽपकुर्याद्द्विजातिषु॥ 12-75-11(67781)
ब्रह्मस्वे रक्ष्यमाणे तु सर्वं भवति रक्षितम्।
तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेन्नृपः॥ 12-75-12(67782)
पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः।
नरास्तमुपजीवन्ति नृपं सर्वार्थसाधकम्॥ 12-75-13(67783)
न हि कामात्मना राज्ञा सततं शठबुद्धिना।
नृशंनेनातिलुब्धेन शक्यं पालयितुं प्रजाः॥ 12-75-14(67784)
युधिष्ठिर उवाच। 12-75-15x(5530)
नाहं राज्यसुखान्वेषी राज्यमिच्छाम्यपि क्षणम्।
धर्मार्थं रोचये राज्यं धर्मश्चात्र न विद्यते॥ 12-75-15(67785)
तदल मम राज्येन यत्र धर्मो न विद्यते।
वनमेव गमिष्यामि तस्माद्धर्मचिकीर्षया॥ 12-75-16(67786)
तत्र मेध्येष्वरण्येषु न्यस्तदण्डो जितेन्द्रियः।
धर्ममाराधयिष्यामि मुनिर्मूलफलाशनः॥ 12-75-17(67787)
भीष्म उवाच। 12-75-18x(5531)
वेदाहं तव या बुद्धिरानृशंस्येऽगुणैव सा।
न च नित्यानृशंसेन शक्यं राज्यमुपासितुम्॥ 12-75-18(67788)
सदैव त्वां मृदुप्रज्ञमत्यार्यमतिधार्मिकम्।
क्लीबं धर्मघृणायुक्तं न लोको बहुमन्यते॥ 12-75-19(67789)
राजधर्ममवेक्षस्व पितृपैतामहोचितम्।
नैतद्राज्ञामथो वृत्तं यथा त्वं स्थातुमिच्छसि॥ 12-75-20(67790)
न हि वैक्लव्यसंसृष्टमानृशंस्यमिहास्थितः।
प्रजापालनसंभूतं प्राप्तो धर्मफलं ह्यसि॥ 12-75-21(67791)
न ह्येतामाशिषं पाण्डुर्न च कुन्त्यभ्यभाषत।
`विचित्रवीर्यो धर्मात्मा चित्रवीर्यो नराधिपः॥ 12-75-22(67792)
शन्तनुश्च महीपालः सर्वक्षत्रस्य पूजितः।'
तवैतां प्राज्ञतां तात यथा चरसि मेधया॥ 12-75-23(67793)
शौर्यं बलं च सत्यं च पिता तव सदाऽब्रवीत्।
महत्त्वं बलमौदार्यं भवतः कुन्त्ययाचत॥ 12-75-24(67794)
नित्यं स्वाहा स्वधा नित्यं चोभे मानुषदैवते।
पुत्रेष्वाशासते नित्यं पितरो दैवतानि च॥ 12-75-25(67795)
दानमध्ययनं यज्ञं प्रजानां परिपालनम्।
धर्म्यमेतदधर्म्यं वा जन्मनैवाभ्यजायथाः॥ 12-75-26(67796)
कुले धुरि च युक्तानां वहतां भारमीदृशम्।
सीदतामपि कौन्तेय कीर्तिर्न परिहीयते॥ 12-75-27(67797)
समन्ततो विनीतो यो वहत्यस्खलितो हि सः।
निर्दोषकर्मवचनात्सिद्धिः कर्मण एव सा॥ 12-75-28(67798)
नैकान्ते विनिपातेऽपि विहरेदिह कश्चन।
धर्मी गृही वा राजा वा ब्रह्मचार्यथवा द्विजः॥ 12-75-29(67799)
अल्पं हि सारभूयिष्ठं यत्कर्मोदारमेव तत्।
कृतमेवाकृताच्छ्रेयो न पापीयोऽस्य कर्मणः॥ 12-75-30(67800)
यदा कुलीनो धर्मज्ञः प्राप्नोत्यैश्वर्यमुत्तमम्।
योगक्षेमस्तदा राज्ञः कुशलायैव कल्पते॥ 12-75-31(67801)
दानेनान्यं बलेनान्यमन्यं सूनृतया गिरा।
सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः॥ 12-75-32(67802)
यं हि वैद्याः कुले जाता ह्यवृत्तिभयपीडिताः।
प्राप्य तृप्ताः प्रतिष्ठन्ति धर्मः कोऽभ्यधिकस्ततः॥ 12-75-33(67803)
युधिष्ठिर उवाच। 12-75-34x(5532)
किं न्वतः परमं स्वर्ग्यं का ततः प्रीतिरुत्तमा।
किं ततः परमैश्वर्यं ब्रूहि मे यदि पश्यसि॥ 12-75-34(67804)
भीष्म उवाच। 12-75-35x(5533)
यस्मिन्भयार्दिताः सन्तः क्षेमं विन्दन्त्यपि क्षणम्।
स स्वर्गजित्तमोऽस्माकं सत्यमेतद्ब्रवीमि ते॥ 12-75-35(67805)
त्वमेव प्रीतिमांस्तस्मात्कुरूणां कुरुसत्तम।
भव राजा जय स्वर्गं सतो रक्षाऽसतो जहि॥ 12-75-36(67806)
अनु त्वां तात जीवन्तु सुहृदः साधुभिः सह।
पर्जन्यमिव भूतानि स्वादुद्रुममिव द्विजाः॥ 12-75-37(67807)
धृष्टं शूरं प्रहर्तारमनृशंसं जितेन्द्रियम्।
वत्सलं संविभक्तारमुपजीवन्तु बान्धवाः॥ ॥ 12-75-38(67808)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चसप्ततितमोऽध्यायः॥ 75॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-75-5 न कामात्कस्यचित्क्षमेदिति झ.पाठः॥ 12-75-7 यदधीते ब्राह्मणादिः॥ 12-75-10 अशक्तेन राज्ञा उपजीवतः धनोपजीविनो वणिजादेः॥ 12-75-32 प्रतिगृह्णीयाद्वशीकुर्यात्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|